सिद्धि लक्ष्मी स्तोत्रम siddhi Lakshmi stotram 

सिद्धिलक्ष्मीस्तोत्रम् 

श्री गणेशाय नमः ।

ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः,

अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त

दुःखक्लेशपीडादारिद्र्यविनाशार्थं

सर्वलक्ष्मीप्रसन्नकरणार्थं

महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च

सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः ।

ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः । ॐ क्लीं अमृतानन्दे मध्यमाभ्यां नमः । ॐ श्रीं दैत्यमालिनी अनामिकाभ्यां नमः । ॐ तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः । ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ॐ सिद्धिलक्ष्मी हृदयाय नमः । ॐ ह्रीं वैष्णवी शिरसे स्वाहा । ॐ क्लीं अमृतानन्दे शिखायै वौषट् ।ॐ श्रीं दैत्यमालिनी कवचाय हुम् । ॐ तं तेजःप्रकाशिनी नेत्रद्वयाय वौषट् । ॐ ह्रीं क्लीं श्रीं ब्राह्मीं वैष्णवीं फट् ॥ अथ ध्यानम् ॥

ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखाम् ।

त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधराम् ॥ १॥

पीताम्बरधरां देवीं नानालङ्कारभूषिताम् ।

तेजःपुञ्जधरां श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ २॥

ॐकारलक्ष्मीरूपेण विष्णोर्हृदयमव्ययम् ।

विष्णुमानन्दमध्यस्थं ह्रींकारबीजरूपिणी ॥ ३॥

ॐ क्लीं अमृतानन्दभद्रे सद्य आनन्ददायिनी ।

ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी ॥ ४॥

तेजःप्रकाशिनी देवी वरदा शुभकारिणी ।

ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी ॥ ५॥

आकारब्रह्मरूपेण ॐकारं विष्णुमव्ययम् ।

सिद्धिलक्ष्मि परालक्ष्मि लक्ष्यलक्ष्मि नमोऽस्तुते ॥ ६॥

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् ।

तन्मध्ये निकरे सूक्ष्मं ब्रह्मरूपव्यवस्थितम् ॥ ७॥

ॐकारपरमानन्दं क्रियते सुखसम्पदा ।

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ॥ ८॥

प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा ।

तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी ॥ ९॥

पञ्चमे विष्णुपत्नी च षष्ठे च वैएष्णवी तथा ।

सप्तमे च वरारोहा अष्टमे वरदायिनी ॥ १०॥

नवमे खड्गत्रिशूला दशमे देवदेवता ।

एकादशे सिद्धिलक्ष्मीर्द्वादशे ललितात्मिका ॥ ११॥

एतत्स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः ।

सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा ॥ १२॥

एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् ।

पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ॥ १३॥

ब्राह्मणाः क्लेशतो दुःखदरिद्रा भयपीडिताः ।

जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः ॥ १४॥

अलक्ष्मीर्लभते लक्ष्मीमपुत्रः पुत्रमुत्तमम् ।

धन्यं यशस्यमायुष्यं वह्निचौरभयेषु च ॥ १५॥

शाकिनीभूतवेतालसर्वव्याधिनिपातके ।

राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे ॥ १६॥

सभास्थाने श्मशाने च कारागेहारिबन्धने ।

अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ॥ १७॥

ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणम् ।

स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते ॥ १८॥

या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे

श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।

शङ्खे देवकुले नरेन्द्रभवनी गङ्गातटे गोकुले

सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात्सदा निश्चला ॥ १९॥

॥ इति श्रीब्रह्माण्डपुराणे ईश्वरविष्णुसंवादे दारिद्र्यनाशनं

सिद्धिलक्ष्मीस्तोत्रं सम्पूर्णम् ॥ 

Must Read मां लक्ष्मी को प्रसन्न करने का दुर्लभ सहस्राक्षरी लक्ष्मी स्तोत्र मंत्र, मनोवांछित फल की होगी प्राप्ति