॥ श्रीकृष्णस्तोत्रं मोहिनीरचितम् ॥

Sri Krishna Stotram Mohinierchitam

श्री गणेशाय नमः । मोहिन्युवाच ।

सर्वेन्द्रियाणां प्रवरं विष्णोरंशं च मानसम् ।

तदेव कर्मणां बीजं तदुद्भव नमोऽस्तु ते ॥ १॥

स्वयमात्मा हि भगवान् ज्ञानरूपो महेश्वरः ।

नमो ब्रह्मन् जगत्स्रष्टस्तदुद्भव नमोऽस्तु ते ॥ २॥

सर्वाजित जगज्जेतर्जीवजीव मनोहर ।

रतिबीज रतिस्वामिन् रतिप्रिय नमोऽस्तु ते ॥ ३॥

शश्वद्योषिदधिष्ठान योषित्प्राणाधिकप्रिय ।

योषिद्वाहन योषास्त्र योषिद्बन्धो नमोऽस्तु ते ॥ ४॥

पतिसाध्यकराशेषरूपाधार गुणाश्रय ।

सुगन्धिवातसचिव मधुमित्र नमोऽस्तु ते ॥ ५॥

शश्वद्योनिकृताधार स्त्रीसन्दर्शनवर्धन ।

विदग्धानां विरहिणां प्राणान्तक नमोऽस्तु ते ॥ ६॥

अकृपा येषु तेऽनर्थं तेषां ज्ञानं विनाशनम् ।

अनूहरूपभक्‍तेषु कृपासिन्धो नमोऽस्तु ते ॥ ७॥

तपस्विनां च तपसां विघ्नबीजाय लीलया ।

मनः सकामं मुक्‍तानां कर्तुं शक्‍तं नमोऽस्तु ते ॥ ८॥

तपःसाध्यस्तथाऽऽराध्यः सदैवं पाञ्चभौतिकः ।

पञ्चेन्द्रियकृताधार पञ्चबाण नमोऽस्तु ते ॥ ९॥

मोहिनीत्येवमुक्‍त्वा तु मनसा सा विधेः पुरः ।

विरराम नम्रवक्‍त्रा बभूव ध्यानतत्परा ॥ १०॥

उक्‍तं माध्यन्दिने कान्ते स्तोत्रमेतन्मनोहरम् ।

पुरा दुर्वाससा दत्तं मोहिन्यै गन्धमादने ॥ ११॥

स्तोत्रमेतन्महापुण्यं कामी भक्‍त्या यदा पठेत् ।

अभीष्टं लभते नूनं निष्कलङ्को भवेद् ध्रुवम् ॥ १२॥

चेष्टां न कुरुते कामः कदाचिदपि तं प्रियम् ।

भवेदरोगी श्रीयुक्‍तः कामदेवसमप्रभः ।

वनितां लभते साध्वीं पत्‍नीं त्रैलोक्यमोहिनीम् ॥ १३॥

॥ इति श्रीमोहिनीकृतं कृष्णस्तोत्रं समाप्तम् ॥

इसे भी पढ़ें श्रीकृष्णस्तुतिःदेव इस कृष्ण स्तुति से मिलेगी, द्वारकाधीश की अपार कृपा