सोमवार का दिन भगवान शिव को समर्पित है और इस दिन पूरे विधि-विधान से इनका पूजन करना चाहिए. शिव शंभू भक्तों की प्रार्थना से बहुत जल्दी प्रसन्न हो जाते हैं भगवान शंकर भक्तों की प्रार्थना से बहुत जल्द ही प्रसन्न हो जाते हैं. इसी कारण उन्हें ‘आशुतोष’ भी कहा जाता है. वैसे तो धर्मग्रंथों में भोलेनाथ की कई स्तुतियां हैं, 

शम्भुस्तोत्रम्

नानायोनिसहस्रकोटिषु मुहुः सम्भूय सम्भूय तद्गर्भावासनिरन्तदुःखनिवहं वक्तुं न शक्यं च तत् ।

भूयो भूय इहानुभूय सुतरां कष्टानि नष्टोऽस्म्यहं त्राहि त्वं करुणातरङ्गितदृशा शम्भो दयाम्भोनिधे ॥ १ ॥

बाल्ये ताडनपीडनैर्बहुविधैः पित्रादिभिर्बोधितः तत्कालोचितरोगजालजनितैर्दुःखैरलं बाधितः ।

लीलालौल्यगुणीकृतैश्च विविधैर्दुश्चोष्टितैः क्लेशितः सोऽहं त्वां शरणं व्रजाम्यव विभो शम्भो दयाम्भोनिधे ॥ २ ॥

तारुण्ये मदनेन पीडिततनुः कामातुरः कामिनीसक्तस्तद्वशगः स्वधर्मविमुखः सद्भिः सदा दूषितः ।

कर्माकार्षमपारनारकफलं सौख्याशया दुर्मतिः त्राहि त्वं करुणातरङ्गितदृशा शम्भो दयाम्भोनिधे ॥ ३ ॥

वृद्धत्वे गलिताखिलेन्द्रियबलो विभ्रष्टदन्तावलिः श्वेतीभूतशिराः सुजर्जरतनुः कम्पाश्रयोऽनाश्रयः ।

लालोच्छिष्टपुरीषमूत्रसलिलक्लिन्नोऽस्मि दीनोऽस्म्यहं त्राहि त्वं करुणातरङ्गितदृशा शम्भो दयाम्भोनिधे ॥ ४ ॥

ध्यातं ते पदाम्बुजं सकृदपि ध्यातं धनं सर्वदा पूजा ते न कृता कृता स्ववपुषः स्त्रग्गन्धलेपार्चनैः ।

नान्नाद्यैः परितर्पिता द्विजवरा जिह्वैव सन्तर्पिता पापिष्ठेन मया सदाशिव विभो शम्भो दयाम्भोनिधे ॥ ५ ॥

सन्ध्यास्नानजपादि कर्म न कृतं भक्त्या कृतं दुष्कृतं त्वन्नामेश न कीर्तितं त्वतिमुदा दुर्भाषितं भाषितम् ।

त्वन्मूर्तिर्न विलोकिता पुनरपि स्त्रीमूर्तिरालोकिता भोगासक्तिमता मया शिव विभो शम्भो दयाम्भोनिधे ॥ ६ ॥

सन्ध्याध्यानजपादिकर्मकरणे शक्तोऽस्मि नैव प्रभो दातुं हन्त मतिं प्रतीपकरणे दारादिबन्धास्पदे ।

नामैकं तव तारकं मम विभो ह्यन्यन्न चास्ति क्वचित् त्राहि त्वं करुणातरङ्गितदृशा शम्भो दयाम्भोनिधे ॥ ७ ॥

कुम्भीपाकधुरन्धरादिषु महाबीजादिषु प्रोद्धतं घोरं नारकदुःखमीषदपि वा सोढुं न शक्तोऽस्म्यहम् ।

तस्मात् त्वां शरणं व्रजामि सततं जानामि न त्वां विना त्राहि त्वं करुणातरङ्गितदृशा शम्भो दयाम्भोनिधे ॥ ८ ॥

माता वापि पिता सुतोऽपि न हितो भ्रात्रादयो बान्धवाः सर्वे स्वार्थपरा भवन्ति खलु मां त्रातुं न केऽपि क्षमाः ।

दूतेभ्यो यमचोदितेभ्य इह तु त्वामन्तरा शङ्कर त्राहि त्वं करुणातरङ्गितदृशा शम्भो दयाम्भोनिधे ॥ ९ ॥

॥ शम्भुस्तोत्रं सम्पूर्णम् ॥ 

इसे भी पढ़ें Lord Shiva इन में से किसी भी एक मंत्र का उच्चारण कर शिव जी को चढ़ाए बिल्वपत्र, हर मनोकामना होगी पूरी