Shri Saubhagya Kavacha Stotram सम्पूर्ण दिव्य सौभाग्य देने वाला है 

श्री सौभाग्य कवच स्तोत्रम्

॥ पूर्वपीठिका ॥

कैलासशिखरे रम्ये सुखासीनं सुरार्चितं

गिरीशं गिरिजा स्तुत्वा स्तोत्रैर्वेदान्तपारगैः ।

प्रणम्य परया भक्त्या तमपृच्छत् कृताञ्जलिः

रहस्यं रक्षणं किं वा सर्वसम्पत्करं वद ॥

श्रीशिवोवाच

श‍ृणु देवि! प्रवक्ष्यामि यस्मात् त्वं परिपृच्छसि

यस्य श्रवणमात्रेण भवभीतिर्न जायते ।

एतत् सौभाग्यकवच रहस्यातिरहस्यकं

सौभाग्यकवचं देवि! श‍ृणु सौभाग्यदायकम् ॥

विनियोगः

अस्य श्रीसौभाग्यकवचस्तोत्रस्य श्रीआनन्दभैरव ऋषिः ।

अनुष्टुप् छन्दः । श्रीसौभाग्यसुन्दरी देवता । ॐ क्लीं सौः बीजम् ।

ह्रीं क्लीं शक्तिः । आं ह्रीं क्रों कीलकम् ।

सर्वसौभाग्यसिद्‍ध्यर्थे पाठे विनियोगः ॥

ऋष्यादिन्यासः

शिरसि श्रीआनन्दभैरवाय ऋषये नमः । मुखे अनुष्टुप्छन्दसे नमः ।

हृदि श्रीसौभाग्यसुन्दरीदेवतायै नमः । गुह्ये ॐ क्लीं सौः बीजाय नमः ।

पादयोः ह्रीं क्लीं शक्तये नमः । नाभौ आं ह्रीं क्रों कीलकाय नमः ।

सर्वाङ्गे सर्वसौभाग्यसिद्‍ध्यर्थे पाठे विनियोगाय नमः ।

षडङ्गन्यासः

करन्यासः

ऐं अङ्गुष्ठाभ्यां नमः ।

क्लीं तर्जनीभ्यां नमः ।

सौः मध्यमाभ्यां नमः ।

ऐं अनामिकाभ्यां नमः ।

क्लीं कनिष्ठिकाभ्यां नमः ।

सौः करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः –

ऐं हृदयाय नमः ।

क्लीं शिरसे स्वाहा ।

सौः शिखायै वषट ।

ऐं कवचाय हुं ।

क्लीं नेत्रत्रयाय वौषट् ।

सौः अस्त्राय फट् ॥

ध्यानं

ऐहिकपरफलदात्रीमैशानीं मनसि भावये मुद्राम् ।

ऐन्दवकलावतंसामैश्वर्यस्फुरणपरिणतिं जगताम् ॥ १॥

क्लीबत्वदैत्यहन्त्री क्लिन्नमनस्कां महेश्वराश्लिष्टाम् ।

क्लृप्तजनेष्टकर्त्रीं कल्पितलोकप्रभां नमामि कलाम् ॥ २॥

सौभाग्यदिव्यकनिधिं सौरभकचवृन्दविचलदलिमालाम् ।

सौशील्यशेषतल्पां सौन्दर्यविभामञ्जरीं कलये ॥ ३॥

पाशपाणि सृणिपाणि भावये चापपाणि शरपाणि दैवतम् ।

यत्प्रभापटलपाटलं जगत् पद्मरागमणिमण्डपायते ॥ ४॥

हेमाद्रौ हेमपीठस्थितामखिलसुरैरीड्यमानां विराजत् ।

पुष्पेष्विष्वासपाशाङ्कुशकरकमलां रक्तवेषातिरक्ताम् ॥ ५॥

दिक्षूद्यद्भिश्चतुर्भिर्मणिमयकलशैः पञ्चशक्त्याञ्चितैः स्व ।

भ्रष्टैः क्लृप्ताभिषेकां भजत भगवतीं भूतिदामन्त्ययामे ॥ ६॥

कवचस्तोत्रं

शिखाग्रं सततं पातु मम त्रिपुरसुन्दरी ।

शिरः कामेश्वरी नित्या तत्पूर्वं भगमालिनी ॥ १॥

नित्यक्लिन्नाऽवताद्दक्षं भेरुण्डा तस्य पश्चिमम् ।

वह्निवासिन्यवेद् वामं मुखं विद्येश्वरी तथा ॥ २॥

शिवदूती ललाटं मे त्वरिता तस्य दक्षिणम् ।

तद्वामपार्श्वमवतात् तथैव कुलसुन्दरी ॥ ३॥

नित्या पातु भ्रुवोर्मध्यं भ्रुवं नीलपताकिनी ।

वामभ्रुवं तु विजया नयनं सर्वमङ्गला ॥ ४॥

ज्वालामालिन्यक्षि वामं चित्रा रक्षतु पक्ष्मणी ।

दक्षश्रोत्रं महानित्या वामं पातु महोद्यमा ॥ ५॥

दक्षं वामं च वटुका कपोलौ क्षेत्रपालिका ।

दक्षनासापुटं दुर्गा तदन्यं तु भारती ॥ ६॥

नासिकाग्रं सदा पातु महालक्ष्मीर्निरन्तरम् ।

अणिमा दक्षकटिं महिमा च तदन्यकम् ॥ ७॥

दक्षगण्डं च गरिमा लघिमा चोत्तरं तथा ।

ऊर्ध्वोष्ठकं प्राप्तिसिद्धिः प्राकाम्यमधरोष्ठकम् ॥ ८॥

ईशित्वमूर्ध्वदन्तांश्च ह्यधोदन्तान् वशित्वकम् ।

रससिद्धिश्च रसनां मोक्षसिद्धिश्च तालुकम् ॥ ९॥

तालुमूलद्वयं ब्राह्मीमाहेश्वर्यौ च रक्षताम् ।

कौमारी चिबुकं पातु तदधः पातु वैष्णवी ॥ १०॥

कण्ठं रक्षतु वाराही चैन्द्राणी रक्षतादधः ।

कृकाटिकां तु चामुण्डा महालक्ष्मीस्तु सर्वतः ॥ ११॥

सर्वसङ्क्षोभिणीमुद्रा स्कन्धं रक्षतु दक्षिणम् ।

तदन्यं द्राविणीमुद्रा पायादंसद्वयं क्रमात् ॥ १२॥

आकर्षणी वश्यमुद्रा चोन्मादिन्यथ दक्षिणम् ।

भुजं महाङ्कुशा वामं खेचरी दक्षकक्षकम् ॥ १३॥

वामकक्षं बीजमुद्रा योनिमुद्रा तु दक्षिणम् ।

लसत् त्रिखण्डिनीमुद्रा वामभागं प्रपालयेत् ॥ १४॥

श्रीकामाकर्षिणी नित्या रक्षताद् दक्षकूर्परम् ।

कूर्परं वाममवतात् सा बुद्‍ध्याकर्षिणी तथा ॥ १५॥

अहङ्काराकर्षिणी तु प्रकाण्डं पातु दक्षिणम् ।

शब्दाकर्षिणिका वामं स्पर्शाकर्षिणिकाऽवतु ॥ १६॥

प्रकोष्ठं दक्षिणं पातु रूपाकर्षिणिकेतरम् ।

रसाकर्षिणिका पातु मणिबन्धं च दक्षिणम् ॥ १७॥

गन्धाकर्षिणिका वामं चित्ताकर्षिणिकाऽवतु ।

करभं दक्षिणं धैर्याकर्षिणी पातु वामकम् ॥ १८॥

स्मृत्याकर्षिण्यसौ वामं नामाकर्षिणिकेतरम् ।

बीजाकर्षिणिका पायात् सततं दक्षिणाङ्गुलीः ॥ १९॥

आत्माकर्षिणिका त्वन्या अमृताकर्षिणी नखान् ।

शरीराकर्षिणी वामनखान् रक्षतु सर्वदा ॥ २०॥

अनङ्गकुसुमा शक्तिः पातु दक्षिणस्तनोपरि ।

अनङ्गमेखला चान्यस्तनोर्ध्वमभिरक्षतु ॥ २१॥

अनङ्गमदना दक्षस्तनं तच्चूचुकं पुनः ।

रक्षतादनिशं देवी ह्यनङ्गःमदनातुरा ॥ २२॥

अनङ्गरेखा वामं तु वक्षोज तस्य चूचुकम् ।

अनङ्गवेगिनी क्रोडमनङ्गास्याङ्कुशाऽवतु ॥ २३॥

अनङ्गमालिनी पायाद् वक्षःस्थलमहर्निशम् ।

सर्वसङ्क्षोभिणी शक्तिर्हृत् सर्वद्राविणी परा ॥ २४॥

कुक्षिं सर्वाकर्षिणी तु पातु पार्श्वं च दक्षिणम् ।

आह्लादिनी वामपार्श्वं मध्यं सम्मोहिनी चिरम् ॥ २५॥

सा सर्वस्तम्भिनी पृष्ठं नाभिं वै सर्वजृम्भिणी ।

वशङ्करी वस्तिदेशं सर्वरञ्जिनी मे कटिम् ॥ २६॥

सा तु सर्वोन्मादिनी मे पायाज्जघनमण्डलम् ।

सर्वार्थसाधिनी शक्तिः नितम्बं रक्षतान्मम ॥ २७॥

दक्षस्फिचं सदा पातु सर्वसम्पत्तिपूरिणी ।

सर्वमन्त्रमयी शक्तिः पातु वामस्फिचं मम ॥ २८॥

पायात् कुकुन्दरद्वन्द्वं सर्वद्वन्द्वक्षयङ्करी ।

सर्वसिद्धिप्रदा देवी पातु दक्षिण वङ्क्षणम् ॥ २९॥

सर्वसम्पत्प्रदा देवी पातु मे वामवङ्क्षणम् ।

सर्वप्रियङ्करी देवी गुह्यं रक्षतु मे सदा ॥ ३०॥

मेढ्रं रक्षतु मे देवी सर्वमङ्गलकारिणी ।

सर्वकामप्रदा देवी पातु मुष्कं तु दक्षिणम् ॥ ३१॥

पायात् तदन्यमुष्कं तु सर्वदुःखविमोचिनी ।

सर्वमृत्युप्रशमनी देवी पातु गुदं मम ॥ ३२॥

पातु देवी गुह्यमध्यं सर्वविघ्ननिवारिणी ।

सर्वाङ्गसुन्दरी देवी रक्षताद् दक्षसक्थिकम् ॥ ३३॥

वामसक्थितलं पायात् सर्वसौभाग्यदायिनी ।

अष्ठीवं मम सर्वज्ञा देवी रक्षतु दक्षिणम् ॥ ३४॥

वामाष्ठीवं सर्वशक्तिः देवी पातु युगं मम ।

सर्वैश्वर्यप्रदा देवी दक्षजानुं सदाऽवतु ॥ ३५॥

सर्वज्ञानमयी देवी जानुमन्यं ममावतात् ।

अव्याद् देवी दक्षजङ्गां सर्वव्याधिविनाशिनी ॥ ३६॥

तदन्यां पातु देवी सा सर्वाधारस्वरूपिणी ।

सर्वपापहरा देवी गुल्फं रक्षतु दक्षिणम् ॥ ३७॥

सर्वानन्दमयी देवी वामगुल्फं सदाऽवतु ।

पार्ष्णि मे दक्षिणं पायात् सर्वरक्षास्वरूपिणी ॥ ३८॥

अव्यात् सदा सदा पार्ष्णि सर्वेप्सितफलप्रदा ।

दक्षाङ्घ्रिपार्श्वं वशिनी पूर्वं वाग्देवता मम ॥ ३९॥

सर्वं कामेश्वरी चोर्ध्वमधो वाग्देवता मम ।

मोदिनी प्रपदं पातु विमला दक्षिणेतरे ॥ ४०॥

अङ्गुलीररुणा पातु दक्षपादनखोज्ज्वला ।

तदन्या जयिनी पातु सदा सर्वेश्वरी मम ॥ ४१॥

दक्षवामपादतलं कौलिनी देवता मम ।

कुर्वन्तु जृम्भणा बाणाः त्रैलोक्याकर्षणं मम ॥ ४२॥

मोहं संहरतादिक्षुकोदण्डं भृङ्गमौविकम् ।

करोतु सततं पाशी वशीकरणमद्भुतम् ॥ ४३॥

विदध्यादङ्कुशं नित्यं स्तम्भनं शत्रुसङ्कटे ।

पीठं मे कामरूपाख्यं पातु कामान्तिकं मनः ॥ ४४॥

पूर्णं पूर्णगिरेः पीठं कान्तिं मे जनयेत् सदा ।

जालन्धरमन्यजालन्धरपीठं मे रक्षतु ॥ ४५॥

सायुज्ये नियतां प्रज्ञां श्रीपीठं श्रीकरं मम ।

कामेश्वरी त्वात्मतत्त्वं रक्षेद् वज्रेश्वरी तथा ॥ ४६॥

विद्यातत्त्वं शैवतत्त्वं पायाछ्रीभगमालिनी ।

कामं विद्यान्महाशत्रूनमृतार्णवमानसम् ॥ ४७॥

क्रोधं क्रोधापहा हन्यान्मन्युं पैताम्बुजासनम् ।

लोभं चिदासनं हन्याद् देव्यात्मामृतरूपभाक् ॥ ४८॥

मोहं संहरताच्चक्रं मदं मन्त्रासनं मम ।

मात्सर्यं नाशयेन्नित्यं मम सान्ध्यासनं तथा ॥ ४९॥

आधारं त्रिपुरा रक्षेत् स्वाधिष्ठानं पुरेश्वरी ।

मणिपूरं मणिद्योता पायात् त्रिपुरसुन्दरी ॥ ५०॥

अव्यादनाहतं भव्या नित्यं त्रिपुरवासिनी ।

विशुद्धिं त्रिपुरा श्रीश्च आज्ञां त्रिपुरमालिनी ॥ ५१॥

इडां मे त्रिपुरसिद्धा त्रिपुरा चापि पिङ्गलाम् ।

सुषुम्नां पातु मे नित्या पायात् त्रिपुरभैरवी ॥ ५२॥

त्रैलोक्यमोहनं चक्रं रोमकूपांश्च रक्षतु ।

सर्वाशापूरकं चक्रं सप्तधातूँश्च रक्षतु ॥ ५३॥

सर्वसङ्क्षोभण चक्रं प्राणाद्यं वायुपञ्चकम् ।

सौभाग्यदायकं चक्रं नागाद्यनिलपञ्चकम् ॥ ५४॥

सर्वार्थसाधकं चक्रं कारणानां चतुष्टयम् ।

सर्वरक्षाकरं चक्रं रक्षतान्मे गुणत्रयम् ॥ ५५॥

सर्वरोगहरं चक्रं पायात् पुर्यष्टकं मम ।

सर्वसिद्धिप्रदं चकमव्यान्मे कोशपञ्चकम् ॥ ५६॥

सर्वानन्दमयं चक्रं यशः कीर्तिं च रक्षतु ।

सौन्दर्यं मन्मथः पायाद् धृतिश्चापि रतिं मम ॥ ५७॥

प्रीतिं मे पातु या प्रीतिः रूपं पातु वसन्तकः ।

सङ्कल्पं कल्पकोद्यानं महालक्ष्मी श्रियं मम ॥ ५८॥

कान्तिं कपालिनी रक्षेत् मन्दिरं मणिमण्डपः ।

पुत्रान् शङ्खयनिधिः पायाद् भार्यां पद्मनिधिस्तथा ॥ ५९॥

मार्गे क्षेमङ्करी रक्षेत् मातङ्गी मुकुटं तथा ।

योगिनी प्रकटाद्यास्ता नवद्वाराणि पान्तु मे ॥ ६०॥

भोजने मामन्नपूर्णा मातङ्गी क्रीडनेऽवतात् ।

वने रक्षतु मां दुर्गा जाग्रती दुष्टनिग्रहे ॥ ६१॥

त्रिधाऽहङ्कारनैष्ठुर्यदोषत्रयं मलत्रयम् ।

डाकिन्यो योगिनीमुख्याः संहरन्तु ममानिशम् ॥ ६२॥

इच्छाशक्तिर्गुरोर्भक्तिं पातु मे ज्ञानमात्मनि ।

ज्ञानशक्तिः क्रियाशक्तिर्वैराग्यविषयेष्वपि ॥ ६३॥

हृत्पद्मकर्णिकामध्ये ह्रीङ्कारी परिरक्षतु ।

वैखरी श्रवणं पातु मध्यमा मननं पुनः ॥ ६४॥

योगं रक्षतु पश्यन्ती साक्षात् ज्ञानपरा मम ।

ब्रह्माणी जागृतं पातु शयानं वैष्णवी तथा ॥ ६५॥

सुषुप्तौ चण्डिका पातु तुर्या मे मोहकारिणी ।

सदा मां भैरवी पातु जगद्भरणपण्डिता ॥ ६६॥

चरणाम्भोरुहानन्दपरामृतरसेरिता ।

प्लाविनी कुण्डली पूर्णा अन्तरान्तं सदाऽवतात् ॥ ६७॥

अष्टदिक्षु महेन्द्राद्या सायुधाः पान्तु सर्वदा ।

पायादूर्ध्वा दिशं ब्रह्मा विष्णुश्चक्रायुधोप्यधः ॥ ६८॥

अनावृत्तानि स्थानानि कवचेन तु यानि मे ।

तानि सर्वाणि रक्षन्तु शिवाद्या गुरवः सदा ॥ ६९॥

फलश्रुतिः ।

एतत् सौभाग्यकवचं शाङ्करं यस्तु पाठयेत् ।

त्रिसन्ध्यं यः पठेद् भक्त्या श‍ृणुयाद् वा समाहितः ॥ १॥

तस्य शीघ्रेण सिध्यन्ति सिद्धयस्त्वणिमादयः ।

गुटिकापादुकाद्यष्टसिद्धयः सम्भवन्ति च ॥ २॥

वश्यादीन्यष्टकर्माणि योगश्चाष्टाङ्गसंयुतः ।

ब्रह्माविष्णुगिरीशेन्द्रकन्दर्परतिभिः सह ॥ ३॥

विचरन्ते तदखिलान् सिद्धगन्धर्वसेविताः ।

तस्य स्मरणमात्रेण ग्रहभूतपिशाचकाः ॥ ४॥

कीटवत् प्रपलायन्ते कष्माण्डा भैरवादयः ।

तस्याङ्घ्रितोयपतनात् प्रशाम्यति महारुजाः ॥ ५॥

तत्पादकमलासक्तरजोलेशाभिमर्शनात् ।

वश्यं भवति शीघ्रेण त्रैलोक्यं सचराचरम् ।

आबालमहिलाभूपाः किमु मायाविमोहिताः ॥ ६॥

॥ इति वामकेश्वरन्तन्त्रे नित्याषोडशिकार्णवे श्रीसौभाग्यकवचम् ॥ 

इसे भी पढ़ें  जानें आरती, भजन अथवा कीर्तन करते समय तालियां क्यों बजाई जाती है