चौबीस वर्णों का प्रत्येक वर्ण के नाम से उत्तम सिद्धि प्रदान करने वाला यह धूमावती देवी का हृदय स्तोत्र बनाया गया है। जो इस पवित्र पापनाशक स्तोत्र को पढ़ता है वह धूमावती के प्रसाद से परम सिद्धि को प्राप्त करता है। जो मनुष्य एकाग्रचित्त होकर इसका पाठ करता है, वह जो इच्छा करता है वह सब पा लेता है। 

धूमावती हृदय स्तोत्र 

ॐ अस्य श्रीधूमावतीहृदयस्तोत्रमन्त्रस्य पिप्पलाद ऋषिः अनुष्टुप्छन्दः श्रीधूमावती देवता धूं बीजम् ह्रीं शक्तिः क्लीं कीलकम् सर्वशत्रुसंहरणे पाठे विनियोगः॥

अथ हृदयादि षडङ्गन्यासः 

ॐ धां हृदयाय नमः ।

ॐ धीं शिरसे स्वाहा ।

ॐ धूं शिखायै वषट् ।

ॐ धैं कवचाय हुम् ।

ॐ धौं नेत्रत्रयाय वौषट् ।

ॐ धः अस्त्राय फट् ।

अथ करन्यासः 

ॐ धां अङ्गुष्ठाभ्यां नमः ।

ॐ धीं तर्जनीभ्यां नमः ।

ॐ धूं मध्यमाभ्यां नमः ।

ॐ धैं अनामिकाभ्यां नमः ।

ॐ धौं कनिष्ठिकाभ्यां नमः ।

ॐ धः करतलकरपृष्ठाभ्यां नमः ।

अथ ध्यानम् 

ॐ धूम्राभां धूम्रवस्त्रां प्रकटितदशनां मुक्तवालाम्बराढ्यां

काकाङ्कस्यन्दनस्थां धवलकरयुगां शूर्पहस्तातिरूक्षाम्।

नित्यं क्षुत्क्षान्तदेहां मुहुरतिकुटिलां वारिवाञ्छाविचित्रां

ध्यायेद्धूमावतीं वामनयनयुगलां भीतिदां भीषणास्याम्॥१॥

कल्पादौया कालिकाद्याऽचीकलन्मधु कैटभौ।

कल्पान्ते त्रिजगत्सर्वं धूमावतीं भजामि ताम्॥२॥

गुणागाराऽगम्यगुणा या गुणा गुणवर्द्धिनी ।

गीतावेदार्थतत्त्वज्ञैर्धूमावतीं भजामि ताम् ॥३॥

खट्वाङ्गधारिणी खर्वा खण्डिनी खल रक्षसाम्।

धारिणी खेटकस्यापि धूमावतीं भजामि ताम् ॥४॥

घूर्णा घूर्णकरा घोरा घूर्णिताक्षी घनस्वना।

घातिनी घातकानां या धूमावतीं भजामि ताम् ॥५॥

चर्वन्तीमस्थिखण्डानां चण्डमुण्डविदारिणीम् ।

चण्डाट्टहासिनीं देवीं भजे धूमावतीमहम् ॥६॥

छिन्नग्रीवां क्षताच्छन्नां छिन्नमस्ता स्वरूपिणीम् ।

छेदिनीं दुष्टसङ्घानां भजे धूमावतीमहम् ॥७॥

जाता या याचिता देवैरसुरणां विघातिनी।

जल्पन्ती बहु गर्जन्ती भजे तां धूम्ररूपिणीम्॥८॥

झङ्कारकारिणीं झञ्झां झञ्झमाझम वादिनीम् ।

झटित्याकर्षिणीं देवीं भजे धूमावती महम्॥९॥

टीपटङ्कारसंयुक्तां धनुष्टङ्कार कारिणीम् ।

घोरां घनघटाटोपां वन्दे धूमावतीमहम्॥१०॥

ठं ठं ठं ठं मनुप्रीतिं ठः ठः मन्त्रस्वरूपिणीम्।

ठमकाह्वगतिप्रीतां भजे धूमावतीमहम् ॥११॥

डमरूडिण्डिमारावां डाकिनीगण मण्डिताम्।

डाकिनीभोगसन्तुष्टां भजे धूमावतीमहम् ॥१२॥

ढक्कानादेन सन्तुष्टां ढक्कावादक सिद्धिदाम् ।

ढक्कावादचलच्चित्तां भजे धूमावती महम्॥१३॥

तत्त्ववार्त्ताप्रियप्राणां भवपाथोधि तारिणीम् ।

तारस्वरूपिणीं तारां भजे धूमावतीमहम् ॥१४॥

थां थीं थूं थें मन्त्ररूपां थैं थौं थं थः स्वरूपिणीम्।

थकारवर्णसर्वस्वां भजे धूमावतीमहम्॥१५॥

दूर्गास्वरूपिणीं देवीं दुष्टदानवदारिणीम्।

देवदैत्यकृतध्वंसां वन्दे धूमावतीमहम्॥ १६॥

ध्वान्ताकारान्धकध्वंसां मुक्तधम्मिल्ल धारिणीम् ।

धूमधाराप्रभां धीरां भजे धूमावतीमहम् ॥१७॥

नर्त्तकीनटनप्रीतां नाट्यकर्मविवर्द्धिनीम्।

नारसिंहीन्नराराध्यां नौमि धूमावतीमहम् ॥१८॥

पार्वतीपतिसम्पूज्यां पर्वतोपरि वासिनीम्।

पद्मारूपां पद्मपूज्यां नौमि धूमावतीमहम्॥१९॥

फूत्कारसहितश्वासां फट् मन्त्रफल दायिनीम्।

फेत्कारिगणसंसेव्यां सेवे धूमावतीमहम् ॥२०॥

बलिपूज्यां बलाराध्यां बगलारूपिणीं वराम् ।

ब्रह्मादिवन्दितां विद्यां वन्दे धूमावती महम्॥२१॥

भव्यरूपां भवाराध्यां भुवनेशी स्वरूपिणीम् ।

भक्तभव्यप्रदान्देवीं भजे धूमावतीमहम् ॥२२॥

मायां मधुमतीं मान्यां मकरध्वज मानिताम्।

मत्स्यमांसमदास्वादां मन्ये धूमावतीमहम् ॥२३॥

योगयज्ञप्रसन्नास्यां योगिनीपरिसेविताम्।

यशोदां यज्ञफलदां यजे धूमावतीमहम् ॥ २४॥

रामाराध्यपदद्वन्द्वां रावणध्वंस कारिणीम्।

रमेशरमणीं पूज्यामहं धूमावतीं श्रये ॥२५॥

लक्षलीलाकलालक्ष्यां लोकवन्द्य पदाम्बुजाम्।

लम्बितां बीजकोशाढ्यां वन्दे धूमावतीमहम्॥२६॥

बकपूज्यपदाम्भोजां बकध्यान परायणाम्।

बालां बकारिसन्ध्येयां वन्दे धूमावती महम्॥२७॥

शाङ्करीं शङ्करप्राणां सङ्कटध्वंस कारिणीम् ।

शत्रुसंहारिणीं शुद्धां श्रये धूमावतीमहम् ॥२८॥

षडाननारिसंहन्त्रीं षोडशीरूपधारिणीम्।

षड्रसास्वादिनीं सौम्यां सेवे धूमावती महम् ॥ २९॥

सुरसेवितपादाब्जां सुरसौख्य प्रदायिनीम्।

सुन्दरीगणसंसेव्यां सेवे धूमावतीमहम् ॥३०॥

हेरम्बजननीं योग्यां हास्यलास्य विहारिणीम्।

हारिणीं शत्रुसङ्घानां सेवे धूमावतीमहम् ॥३१॥

क्षीरोदतीरसंवासां क्षीरपानप्रहर्षिताम् ।

क्षणदेशेज्यपादाब्जां सेवे धूमावतीमहम् ॥३२॥

चतुस्त्रिंशद्वर्णकानां प्रतिवर्णादिनामभिः।

कृतं तु हृदयस्तोत्रं धूमावत्यां सुसिद्धिदम् ॥३३॥

य इदं पठति स्तोत्रं पवित्रं पापनाशनम् ।

स प्राप्नोति परां सिद्धिं धूमावत्याः प्रसादतः॥३४॥

पठन्नेकाग्रचित्तो यो यद्यदिच्छति मानवः।

तत्सर्वं समवाप्नोति सत्यं सत्यं वदाम्यहम्॥३५॥

इति धूमावतीहृदयं समाप्तम् ॥ 

इसे भी पढ़ें माँ धूमावती: जानें माँ धूमावती मन्त्र साधना दस महाविद्याओं में सातवीं महाविद्या